Original

दहने हि कृतो यत्नस्त्वयास्मासु विशेषतः ।आशीविषैर्विषैश्चापि जले चापि प्रवेशनैः ।त्वया विनिकृता राजन्राज्यस्य हरणेन च ॥ ६६ ॥

Segmented

दहने हि कृतो यत्नः त्वया अस्मासु विशेषतः आशीविषैः विषैः च अपि जले च अपि प्रवेशनैः त्वया विनिकृता राजन् राज्यस्य हरणेन च

Analysis

Word Lemma Parse
दहने दहन pos=n,g=n,c=7,n=s
हि हि pos=i
कृतो कृ pos=va,g=m,c=1,n=s,f=part
यत्नः यत्न pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
अस्मासु मद् pos=n,g=,c=7,n=p
विशेषतः विशेषतः pos=i
आशीविषैः आशीविष pos=n,g=m,c=3,n=p
विषैः विष pos=n,g=n,c=3,n=p
pos=i
अपि अपि pos=i
जले जल pos=n,g=n,c=7,n=s
pos=i
अपि अपि pos=i
प्रवेशनैः प्रवेशन pos=n,g=n,c=3,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
विनिकृता विनिकृ pos=va,g=f,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
राज्यस्य राज्य pos=n,g=n,c=6,n=s
हरणेन हरण pos=n,g=n,c=3,n=s
pos=i