Original

हृतोत्तमाङ्गं शकुनिं समीक्ष्य भूमौ शयानं रुधिरार्द्रगात्रम् ।योधास्त्वदीया भयनष्टसत्त्वा दिशः प्रजग्मुः प्रगृहीतशस्त्राः ॥ ६० ॥

Segmented

हृत-उत्तमाङ्गम् शकुनिम् समीक्ष्य भूमौ शयानम् रुधिर-आर्द्र-गात्रम् योधाः त्वदीयाः भय-नष्ट-सत्त्वाः दिशः प्रजग्मुः प्रगृहीत-शस्त्राः

Analysis

Word Lemma Parse
हृत हृ pos=va,comp=y,f=part
उत्तमाङ्गम् उत्तमाङ्ग pos=n,g=m,c=2,n=s
शकुनिम् शकुनि pos=n,g=m,c=2,n=s
समीक्ष्य समीक्ष् pos=vi
भूमौ भूमि pos=n,g=f,c=7,n=s
शयानम् शी pos=va,g=m,c=2,n=s,f=part
रुधिर रुधिर pos=n,comp=y
आर्द्र आर्द्र pos=a,comp=y
गात्रम् गात्र pos=n,g=m,c=2,n=s
योधाः योध pos=n,g=m,c=1,n=p
त्वदीयाः त्वदीय pos=a,g=m,c=1,n=p
भय भय pos=n,comp=y
नष्ट नश् pos=va,comp=y,f=part
सत्त्वाः सत्त्व pos=n,g=m,c=1,n=p
दिशः दिश् pos=n,g=f,c=2,n=p
प्रजग्मुः प्रगम् pos=v,p=3,n=p,l=lit
प्रगृहीत प्रग्रह् pos=va,comp=y,f=part
शस्त्राः शस्त्र pos=n,g=m,c=1,n=p