Original

अपश्यमाना राजानं वर्तमाने जनक्षये ।मन्वाना निहतं तत्र तव पुत्रं महारथाः ।विषण्णवदना भूत्वा पर्यपृच्छन्त ते सुतम् ॥ ३७ ॥

Segmented

अपश्यमाना राजानम् वर्तमाने जन-क्षये मन्वाना निहतम् तत्र तव पुत्रम् महा-रथाः विषण्ण-वदनाः भूत्वा पर्यपृच्छन्त ते सुतम्

Analysis

Word Lemma Parse
अपश्यमाना अपश्यमान pos=a,g=m,c=1,n=p
राजानम् राजन् pos=n,g=m,c=2,n=s
वर्तमाने वृत् pos=va,g=m,c=7,n=s,f=part
जन जन pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s
मन्वाना मन् pos=va,g=m,c=1,n=p,f=part
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
तत्र तत्र pos=i
तव त्वद् pos=n,g=,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
विषण्ण विषद् pos=va,comp=y,f=part
वदनाः वदन pos=n,g=m,c=1,n=p
भूत्वा भू pos=vi
पर्यपृच्छन्त परिप्रच्छ् pos=v,p=3,n=p,l=lan
ते त्वद् pos=n,g=,c=6,n=s
सुतम् सुत pos=n,g=m,c=2,n=s