Original

सोऽतिविद्धो महेष्वासस्तोत्त्रार्दित इव द्विपः ।तस्याश्वांश्चतुरो बाणैः प्रेषयामास मृत्यवे ।सारथेश्चास्य भल्लेन शिरः कायादपाहरत् ॥ २० ॥

Segmented

सो ऽतिविद्धो महा-इष्वासः तोत्त्र-अर्दितः इव द्विपः तस्य अश्वान् चतुरः बाणैः प्रेषयामास मृत्यवे सारथेः च अस्य भल्लेन शिरः कायाद् अपाहरत्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽतिविद्धो अतिव्यध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
तोत्त्र तोत्त्र pos=n,comp=y
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
द्विपः द्विप pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अश्वान् अश्व pos=n,g=m,c=2,n=p
चतुरः चतुर् pos=n,g=m,c=2,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
मृत्यवे मृत्यु pos=n,g=m,c=4,n=s
सारथेः सारथि pos=n,g=m,c=6,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
भल्लेन भल्ल pos=n,g=m,c=3,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
कायाद् काय pos=n,g=m,c=5,n=s
अपाहरत् अपहृ pos=v,p=3,n=s,l=lan