Original

संजय उवाच ।अस्यतां यतमानानां शूराणामनिवर्तिनाम् ।संकल्पमकरोन्मोघं गाण्डीवेन धनंजयः ॥ १ ॥

Segmented

संजय उवाच अस्यताम् यतमानानाम् शूराणाम् अनिवर्तिनाम् संकल्पम् अकरोत् मोघम् गाण्डीवेन धनंजयः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अस्यताम् अस् pos=va,g=m,c=6,n=p,f=part
यतमानानाम् यत् pos=va,g=m,c=6,n=p,f=part
शूराणाम् शूर pos=n,g=m,c=6,n=p
अनिवर्तिनाम् अनिवर्तिन् pos=a,g=m,c=6,n=p
संकल्पम् संकल्प pos=n,g=m,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
मोघम् मोघ pos=a,g=m,c=2,n=s
गाण्डीवेन गाण्डीव pos=n,g=m,c=3,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s