Original

नामृष्यन्त सुसंरब्धाः शिखण्डिप्रमुखा रथाः ।रथैरग्र्यजवैर्युक्तैः किङ्किणीजालसंवृतैः ।आजग्मुरभिरक्षन्तः कुन्तीपुत्रं युधिष्ठिरम् ॥ १२ ॥

Segmented

न अमृष्यन्त सु संरब्धाः शिखण्डिन्-प्रमुखाः रथाः रथैः अग्र्य-जवैः युक्तैः किङ्किणी-जाल-संवृतैः आजग्मुः अभिरक्षन्तः कुन्ती-पुत्रम् युधिष्ठिरम्

Analysis

Word Lemma Parse
pos=i
अमृष्यन्त मृष् pos=v,p=3,n=p,l=lan
सु सु pos=i
संरब्धाः संरभ् pos=va,g=m,c=1,n=p,f=part
शिखण्डिन् शिखण्डिन् pos=n,comp=y
प्रमुखाः प्रमुख pos=a,g=m,c=1,n=p
रथाः रथ pos=n,g=m,c=1,n=p
रथैः रथ pos=n,g=m,c=3,n=p
अग्र्य अग्र्य pos=a,comp=y
जवैः जव pos=n,g=m,c=3,n=p
युक्तैः युज् pos=va,g=m,c=3,n=p,f=part
किङ्किणी किङ्किणी pos=n,comp=y
जाल जाल pos=n,comp=y
संवृतैः संवृ pos=va,g=m,c=3,n=p,f=part
आजग्मुः आगम् pos=v,p=3,n=p,l=lit
अभिरक्षन्तः अभिरक्ष् pos=va,g=m,c=1,n=p,f=part
कुन्ती कुन्ती pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s