Original

तौ सिंहाविव नर्दन्तौ धन्विनौ रथिनां वरौ ।अन्योन्यमभ्यधावेतां शस्त्रप्रवरधारिणौ ॥ १० ॥

Segmented

तौ सिंहौ इव नर्दन्तौ धन्विनौ रथिनाम् वरौ अन्योन्यम् अभ्यधावेताम् शस्त्र-प्रवर-धारिनः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
सिंहौ सिंह pos=n,g=m,c=1,n=d
इव इव pos=i
नर्दन्तौ नर्द् pos=va,g=m,c=1,n=d,f=part
धन्विनौ धन्विन् pos=a,g=m,c=1,n=d
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरौ वर pos=a,g=m,c=1,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभ्यधावेताम् अभिधाव् pos=v,p=3,n=d,l=lan
शस्त्र शस्त्र pos=n,comp=y
प्रवर प्रवर pos=a,comp=y
धारिनः धारिन् pos=a,g=m,c=1,n=d