Original

दृष्ट्वा च तां वेगवता प्रभग्नां सर्वे त्वदीया युधि योधमुख्याः ।अपूजयंस्तत्र नराधिपं तं दध्मुश्च शङ्खाञ्शशिसंनिकाशान् ॥ ९ ॥

Segmented

दृष्ट्वा च ताम् वेगवता प्रभग्नाम् सर्वे त्वदीया युधि योध-मुख्याः अपूजयन् तत्र नराधिपम् तम् दध्मुः च शङ्खाञ् शशि-संनिकाशान्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
वेगवता वेगवत् pos=a,g=m,c=3,n=s
प्रभग्नाम् प्रभञ्ज् pos=va,g=f,c=2,n=s,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
त्वदीया त्वदीय pos=a,g=m,c=1,n=p
युधि युध् pos=n,g=f,c=7,n=s
योध योध pos=n,comp=y
मुख्याः मुख्य pos=a,g=m,c=1,n=p
अपूजयन् पूजय् pos=v,p=3,n=p,l=lan
तत्र तत्र pos=i
नराधिपम् नराधिप pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
दध्मुः धम् pos=v,p=3,n=p,l=lit
pos=i
शङ्खाञ् शङ्ख pos=n,g=m,c=2,n=p
शशि शशिन् pos=n,comp=y
संनिकाशान् संनिकाश pos=a,g=m,c=2,n=p