Original

योऽसौ महाभद्रकुलप्रसूतः सुपूजितो धार्तराष्ट्रेण नित्यम् ।सुकल्पितः शास्त्रविनिश्चयज्ञैः सदोपवाह्यः समरेषु राजन् ॥ ३ ॥

Segmented

यो ऽसौ महा-भद्र-कुल-प्रसूतः सु पूजितः धार्तराष्ट्रेण नित्यम् सु कल्पितः शास्त्र-विनिश्चय-ज्ञैः सदा उपवह् समरेषु राजन्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
भद्र भद्र pos=a,comp=y
कुल कुल pos=n,comp=y
प्रसूतः प्रसू pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part
धार्तराष्ट्रेण धार्तराष्ट्र pos=n,g=m,c=3,n=s
नित्यम् नित्यम् pos=i
सु सु pos=i
कल्पितः कल्पय् pos=va,g=m,c=1,n=s,f=part
शास्त्र शास्त्र pos=n,comp=y
विनिश्चय विनिश्चय pos=n,comp=y
ज्ञैः ज्ञ pos=a,g=m,c=3,n=p
सदा सदा pos=i
उपवह् उपवह् pos=va,g=m,c=1,n=s,f=krtya
समरेषु समर pos=n,g=n,c=7,n=p
राजन् राजन् pos=n,g=m,c=8,n=s