Original

ततः पृषत्कान्प्रववर्ष राजा सूर्यो यथा रश्मिजालं समन्तात् ।तेनाशुगैर्वध्यमाना रथौघाः प्रदुद्रुवुस्तत्र ततस्तु सर्वे ॥ २० ॥

Segmented

ततः पृषत्कान् प्रववर्ष राजा सूर्यो यथा रश्मि-जालम् समन्तात् तेन आशुगैः वध्यमाना रथ-ओघाः प्रदुद्रुवुः तत्र ततस् तु सर्वे

Analysis

Word Lemma Parse
ततः ततस् pos=i
पृषत्कान् पृषत्क pos=n,g=m,c=2,n=p
प्रववर्ष प्रवृष् pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
सूर्यो सूर्य pos=n,g=m,c=1,n=s
यथा यथा pos=i
रश्मि रश्मि pos=n,comp=y
जालम् जाल pos=n,g=n,c=2,n=s
समन्तात् समन्तात् pos=i
तेन तद् pos=n,g=m,c=3,n=s
आशुगैः आशुग pos=n,g=m,c=3,n=p
वध्यमाना वध् pos=va,g=m,c=1,n=p,f=part
रथ रथ pos=n,comp=y
ओघाः ओघ pos=n,g=m,c=1,n=p
प्रदुद्रुवुः प्रद्रु pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
ततस् ततस् pos=i
तु तु pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p