Original

तस्मिन्महेष्वासवरे विशस्ते संग्राममध्ये कुरुपुंगवेन ।पार्थाः समेताः परमप्रहृष्टाः शङ्खान्प्रदध्मुर्हतमीक्ष्य शल्यम् ॥ ८६ ॥

Segmented

तस्मिन् महा-इष्वास-वरे विशस्ते संग्राम-मध्ये कुरु-पुंगवेन पार्थाः समेताः परम-प्रहृष्टाः शङ्खान् प्रदध्मुः हतम् ईक्ष्य शल्यम्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
इष्वास इष्वास pos=n,comp=y
वरे वर pos=a,g=m,c=7,n=s
विशस्ते विशंस् pos=va,g=m,c=7,n=s,f=part
संग्राम संग्राम pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
कुरु कुरु pos=n,comp=y
पुंगवेन पुंगव pos=n,g=m,c=3,n=s
पार्थाः पार्थ pos=n,g=m,c=1,n=p
समेताः समे pos=va,g=m,c=1,n=p,f=part
परम परम pos=a,comp=y
प्रहृष्टाः प्रहृष् pos=va,g=m,c=1,n=p,f=part
शङ्खान् शङ्ख pos=n,g=m,c=2,n=p
प्रदध्मुः प्रधम् pos=v,p=3,n=p,l=lit
हतम् हन् pos=va,g=m,c=2,n=s,f=part
ईक्ष्य ईक्ष् pos=vi
शल्यम् शल्य pos=n,g=m,c=2,n=s