Original

ततस्तु शूराः समरे नरेन्द्रं मद्रेश्वरं प्राप्य युधां वरिष्ठम् ।आवार्य चैनं समरे नृवीरा जघ्नुः शरैः पत्रिभिरुग्रवेगैः ॥ ८ ॥

Segmented

ततस् तु शूराः समरे नरेन्द्रम् मद्र-ईश्वरम् प्राप्य युधाम् वरिष्ठम् आवार्य च एनम् समरे नृ-वीराः जघ्नुः शरैः पत्रिभिः उग्र-वेगैः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
शूराः शूर pos=n,g=m,c=1,n=p
समरे समर pos=n,g=n,c=7,n=s
नरेन्द्रम् नरेन्द्र pos=n,g=m,c=2,n=s
मद्र मद्र pos=n,comp=y
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
युधाम् युध् pos=n,g=m,c=6,n=p
वरिष्ठम् वरिष्ठ pos=a,g=m,c=2,n=s
आवार्य आवारय् pos=vi
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
नृ नृ pos=n,comp=y
वीराः वीर pos=n,g=m,c=1,n=p
जघ्नुः हन् pos=v,p=3,n=p,l=lit
शरैः शर pos=n,g=m,c=3,n=p
पत्रिभिः पत्त्रिन् pos=n,g=m,c=3,n=p
उग्र उग्र pos=a,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p