Original

ततः पार्थस्य बाणौघैरावृताः सैनिकास्तव ।निमीलिताक्षाः क्षिण्वन्तो भृशमन्योन्यमर्दिताः ।संन्यस्तकवचा देहैर्विपत्रायुधजीविताः ॥ ५८ ॥

Segmented

ततः पार्थस्य बाण-ओघैः आवृताः सैनिकाः ते निमीलित-अक्षाः क्षिण्वन्तो भृशम् अन्योन्यम् अर्दिताः संन्यस्त-कवचाः देहैः विपत्र-आयुध-जीविताः

Analysis

Word Lemma Parse
ततः ततस् pos=i
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
बाण बाण pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
आवृताः आवृ pos=va,g=m,c=1,n=p,f=part
सैनिकाः सैनिक pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
निमीलित निमीलय् pos=va,comp=y,f=part
अक्षाः अक्ष pos=n,g=m,c=1,n=p
क्षिण्वन्तो क्षि pos=va,g=m,c=1,n=p,f=part
भृशम् भृशम् pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part
संन्यस्त संन्यस् pos=va,comp=y,f=part
कवचाः कवच pos=n,g=m,c=1,n=p
देहैः देह pos=n,g=m,c=3,n=p
विपत्र विपत्र pos=a,comp=y
आयुध आयुध pos=n,comp=y
जीविताः जीवित pos=n,g=m,c=1,n=p