Original

तत्कर्म भीमस्य समीक्ष्य हृष्टास्ते पाण्डवानां प्रवरा रथौघाः ।नादं च चक्रुर्भृशमुत्स्मयन्तः शङ्खांश्च दध्मुः शशिसंनिकाशान् ॥ ३२ ॥

Segmented

तत् कर्म भीमस्य समीक्ष्य हृष्टास् ते पाण्डवानाम् प्रवरा रथ-ओघाः नादम् च चक्रुः भृशम् उत्स्मयन्तः शङ्खान् च दध्मुः शशि-संनिकाशान्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
भीमस्य भीम pos=n,g=m,c=6,n=s
समीक्ष्य समीक्ष् pos=vi
हृष्टास् हृष् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
प्रवरा प्रवर pos=a,g=m,c=1,n=p
रथ रथ pos=n,comp=y
ओघाः ओघ pos=n,g=m,c=1,n=p
नादम् नाद pos=n,g=m,c=2,n=s
pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit
भृशम् भृशम् pos=i
उत्स्मयन्तः उत्स्मि pos=va,g=m,c=1,n=p,f=part
शङ्खान् शङ्ख pos=n,g=m,c=2,n=p
pos=i
दध्मुः धम् pos=v,p=3,n=p,l=lit
शशि शशिन् pos=n,comp=y
संनिकाशान् संनिकाश pos=a,g=m,c=2,n=p