Original

ततो द्रुतं मद्रजनाधिपो रणे युधिष्ठिरं सप्तभिरभ्यविध्यत् ।तं चापि पार्थो नवभिः पृषत्कैर्विव्याध राजंस्तुमुले महात्मा ॥ ११ ॥

Segmented

ततो द्रुतम् मद्र-जनाधिपः रणे युधिष्ठिरम् सप्तभिः अभ्यविध्यत् तम् च अपि पार्थो नवभिः पृषत्कैः विव्याध राजन् तुमुले महात्मा

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रुतम् द्रुतम् pos=i
मद्र मद्र pos=n,comp=y
जनाधिपः जनाधिप pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
अभ्यविध्यत् अभिव्यध् pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
पार्थो पार्थ pos=n,g=m,c=1,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
पृषत्कैः पृषत्क pos=n,g=m,c=3,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
तुमुले तुमुल pos=n,g=n,c=7,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s