Original

युधिष्ठिरस्तु मद्रेशमभ्यधावदमर्षितः ।स्वयं संचोदयन्नश्वान्दन्तवर्णान्मनोजवान् ॥ ४६ ॥

Segmented

युधिष्ठिरः तु मद्र-ईशम् अभ्यधावद् अमर्षितः स्वयम् संचोदयन्न् अश्वान् दन्त-वर्णान् मनोजवान्

Analysis

Word Lemma Parse
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
तु तु pos=i
मद्र मद्र pos=n,comp=y
ईशम् ईश pos=n,g=m,c=2,n=s
अभ्यधावद् अभिधाव् pos=v,p=3,n=s,l=lan
अमर्षितः अमर्षित pos=a,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
संचोदयन्न् संचोदय् pos=va,g=m,c=1,n=s,f=part
अश्वान् अश्व pos=n,g=m,c=2,n=p
दन्त दन्त pos=n,comp=y
वर्णान् वर्ण pos=n,g=m,c=2,n=p
मनोजवान् मनोजव pos=a,g=m,c=2,n=p