Original

तस्मिन्विलुलिते सैन्ये त्रस्तास्तस्य पदानुगाः ।गाण्डीवधन्वा विस्फार्य धनुस्तानहनच्छरैः ॥ ४५ ॥

Segmented

तस्मिन् विलुलिते सैन्ये त्रस्ताः तस्य पदानुगाः गाण्डीवधन्वा विस्फार्य धनुः तान् अहनत् शरैः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
विलुलिते विलुल् pos=va,g=n,c=7,n=s,f=part
सैन्ये सैन्य pos=n,g=n,c=7,n=s
त्रस्ताः त्रस् pos=va,g=m,c=1,n=p,f=part
तस्य तद् pos=n,g=m,c=6,n=s
पदानुगाः पदानुग pos=a,g=m,c=1,n=p
गाण्डीवधन्वा गाण्डीवधन्वन् pos=n,g=m,c=1,n=s
विस्फार्य विस्फारय् pos=vi
धनुः धनुस् pos=n,g=n,c=2,n=s
तान् तद् pos=n,g=m,c=2,n=p
अहनत् हन् pos=v,p=3,n=s,l=lun
शरैः शर pos=n,g=m,c=3,n=p