Original

तेषामासीन्महाराज व्यतिक्षेपः परस्परम् ।सिंहानामामिषेप्सूनां कूजतामिव संयुगे ॥ ३५ ॥

Segmented

तेषाम् आसीत् महा-राज व्यतिक्षेपः परस्परम् सिंहानाम् आमिष-ईप्सूनाम् कूजताम् इव संयुगे

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
आसीत् अस् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
व्यतिक्षेपः व्यतिक्षेप pos=n,g=m,c=1,n=s
परस्परम् परस्पर pos=n,g=m,c=2,n=s
सिंहानाम् सिंह pos=n,g=m,c=6,n=p
आमिष आमिष pos=n,comp=y
ईप्सूनाम् ईप्सु pos=a,g=m,c=6,n=p
कूजताम् कूज् pos=va,g=m,c=6,n=p,f=part
इव इव pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s