Original

शल्यस्तु पीडितस्तेन स्वस्रीयेण महात्मना ।नकुलं पीडयामास पत्रिभिर्नतपर्वभिः ॥ १५ ॥

Segmented

शल्यः तु पीडितः तेन स्वस्रीयेण महात्मना नकुलम् पीडयामास पत्रिभिः नत-पर्वभिः

Analysis

Word Lemma Parse
शल्यः शल्य pos=n,g=m,c=1,n=s
तु तु pos=i
पीडितः पीडय् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
स्वस्रीयेण स्वस्रीय pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
नकुलम् नकुल pos=n,g=m,c=2,n=s
पीडयामास पीडय् pos=v,p=3,n=s,l=lit
पत्रिभिः पत्त्रिन् pos=n,g=m,c=3,n=p
नत नम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p