Original

सहदेवस्तु समरे मातुलं भूरिवर्चसम् ।सज्यमन्यद्धनुः कृत्वा पञ्चभिः समताडयत् ।शरैराशीविषाकारैर्ज्वलज्ज्वलनसंनिभैः ॥ ९ ॥

Segmented

सहदेवः तु समरे मातुलम् भूरि-वर्चसम् सज्यम् अन्यद् धनुः कृत्वा पञ्चभिः समताडयत् शरैः आशीविष-आकारैः ज्वलत्-ज्वलन-संनिभैः

Analysis

Word Lemma Parse
सहदेवः सहदेव pos=n,g=m,c=1,n=s
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
मातुलम् मातुल pos=n,g=m,c=2,n=s
भूरि भूरि pos=n,comp=y
वर्चसम् वर्चस् pos=n,g=m,c=2,n=s
सज्यम् सज्य pos=a,g=n,c=2,n=s
अन्यद् अन्य pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
समताडयत् संताडय् pos=v,p=3,n=s,l=lan
शरैः शर pos=n,g=m,c=3,n=p
आशीविष आशीविष pos=n,comp=y
आकारैः आकार pos=n,g=m,c=3,n=p
ज्वलत् ज्वल् pos=va,comp=y,f=part
ज्वलन ज्वलन pos=n,comp=y
संनिभैः संनिभ pos=a,g=m,c=3,n=p