Original

ध्वजाग्रं चास्य समरे कुन्तीपुत्रो युधिष्ठिरः ।प्रमुखे वर्तमानस्य भल्लेनापहरद्रथात् ॥ ५६ ॥

Segmented

ध्वज-अग्रम् च अस्य समरे कुन्ती-पुत्रः युधिष्ठिरः प्रमुखे वर्तमानस्य भल्लेन अपहरत् रथात्

Analysis

Word Lemma Parse
ध्वज ध्वज pos=n,comp=y
अग्रम् अग्र pos=n,g=n,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
समरे समर pos=n,g=n,c=7,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
प्रमुखे प्रमुख pos=n,g=n,c=7,n=s
वर्तमानस्य वृत् pos=va,g=m,c=6,n=s,f=part
भल्लेन भल्ल pos=n,g=m,c=3,n=s
अपहरत् अपहृ pos=v,p=3,n=s,l=lan
रथात् रथ pos=n,g=m,c=5,n=s