Original

प्रार्थयानौ तदान्योऽन्यं मण्डलानि विचेरतुः ।क्रियाविशेषं कृतिनौ दर्शयामासतुस्तदा ॥ २१ ॥

Segmented

प्रार्थयानौ तदा अन्योन्यम् मण्डलानि विचेरतुः क्रिया-विशेषम् कृतिनौ दर्शयामासतुः तदा

Analysis

Word Lemma Parse
प्रार्थयानौ प्रार्थय् pos=va,g=m,c=1,n=d,f=part
तदा तदा pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
मण्डलानि मण्डल pos=n,g=n,c=2,n=p
विचेरतुः विचर् pos=v,p=3,n=d,l=lit
क्रिया क्रिया pos=n,comp=y
विशेषम् विशेष pos=n,g=m,c=2,n=s
कृतिनौ कृतिन् pos=a,g=m,c=1,n=d
दर्शयामासतुः दर्शय् pos=v,p=3,n=d,l=lit
तदा तदा pos=i