Original

निवृत्य तु महावीर्यौ समुच्छ्रितगदावुभौ ।पुनरन्तरमार्गस्थौ मण्डलानि विचेरतुः ॥ १९ ॥

Segmented

निवृत्य तु महा-वीर्यौ समुच्छ्रित-गदौ उभौ पुनः अन्तर-मार्ग-स्थौ मण्डलानि विचेरतुः

Analysis

Word Lemma Parse
निवृत्य निवृत् pos=vi
तु तु pos=i
महा महत् pos=a,comp=y
वीर्यौ वीर्य pos=n,g=m,c=1,n=d
समुच्छ्रित समुच्छ्रि pos=va,comp=y,f=part
गदौ गदा pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
पुनः पुनर् pos=i
अन्तर अन्तर pos=a,comp=y
मार्ग मार्ग pos=n,comp=y
स्थौ स्थ pos=a,g=m,c=1,n=d
मण्डलानि मण्डल pos=n,g=n,c=2,n=p
विचेरतुः विचर् pos=v,p=3,n=d,l=lit