Original

तौ गदानिहतैर्गात्रैः क्षणेन रुधिरोक्षितौ ।प्रेक्षणीयतरावास्तां पुष्पिताविव किंशुकौ ॥ १५ ॥

Segmented

तौ गदा-निहतैः गात्रैः क्षणेन रुधिर-उक्षितौ प्रेक्षणीयतरौ आस्ताम् पुष्पितौ इव किंशुकौ

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
गदा गदा pos=n,comp=y
निहतैः निहन् pos=va,g=n,c=3,n=p,f=part
गात्रैः गात्र pos=n,g=n,c=3,n=p
क्षणेन क्षण pos=n,g=m,c=3,n=s
रुधिर रुधिर pos=n,comp=y
उक्षितौ उक्ष् pos=va,g=m,c=1,n=d,f=part
प्रेक्षणीयतरौ प्रेक्षणीयतर pos=a,g=m,c=1,n=d
आस्ताम् अस् pos=v,p=3,n=d,l=lan
पुष्पितौ पुष्पित pos=a,g=m,c=1,n=d
इव इव pos=i
किंशुकौ किंशुक pos=n,g=m,c=1,n=d