Original

ततोऽन्यं रथमास्थाय विधिवत्कल्पितं पुनः ।केकयानां महत्सैन्यं व्यधमत्सात्यकिः शरैः ॥ ३४ ॥

Segmented

ततो ऽन्यम् रथम् आस्थाय विधिवत् कल्पितम् पुनः केकयानाम् महत् सैन्यम् व्यधमत् सात्यकिः शरैः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽन्यम् अन्य pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
विधिवत् विधिवत् pos=i
कल्पितम् कल्पय् pos=va,g=m,c=2,n=s,f=part
पुनः पुनर् pos=i
केकयानाम् केकय pos=n,g=m,c=6,n=p
महत् महत् pos=a,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p