Original

छत्राणि वालव्यजनानि शङ्खाः स्रजश्च पुष्पोत्तमहेमचित्राः ।कुथाः पताकाम्बरवेष्टिताश्च किरीटमाला मुकुटाश्च शुभ्राः ॥ २८ ॥

Segmented

छत्राणि वाल-व्यजनानि शङ्खाः स्रजः च पुष्प-उत्तम-हेम-चित्राः कुथाः पताका-अम्बर-वेष्टय् च किरीट-मालाः मुकुटाः च शुभ्राः

Analysis

Word Lemma Parse
छत्राणि छत्त्र pos=n,g=n,c=1,n=p
वाल वाल pos=n,comp=y
व्यजनानि व्यजन pos=n,g=n,c=1,n=p
शङ्खाः शङ्ख pos=n,g=m,c=1,n=p
स्रजः स्रज् pos=n,g=f,c=1,n=p
pos=i
पुष्प पुष्प pos=n,comp=y
उत्तम उत्तम pos=a,comp=y
हेम हेमन् pos=n,comp=y
चित्राः चित्र pos=a,g=f,c=1,n=p
कुथाः कुथ pos=n,g=f,c=1,n=p
पताका पताका pos=n,comp=y
अम्बर अम्बर pos=n,comp=y
वेष्टय् वेष्टय् pos=va,g=f,c=1,n=p,f=part
pos=i
किरीट किरीट pos=n,comp=y
मालाः माला pos=n,g=f,c=1,n=p
मुकुटाः मुकुट pos=n,g=m,c=1,n=p
pos=i
शुभ्राः शुभ्र pos=a,g=m,c=1,n=p