Original

शरप्रहाराभिहतैर्महाबलैरवेक्ष्यमाणैः पतितैः सहस्रशः ।प्रनष्टसंज्ञैः पुनरुच्छ्वसद्भिर्मही बभूवानुगतैरिवाग्निभिः ।दिवश्च्युतैर्भूरतिदीप्तिमद्भिर्नक्तं ग्रहैर्द्यौरमलेव दीप्तैः ॥ २० ॥

Segmented

शर-प्रहार-अभिहतैः महा-बलैः अवेक्ष्यमाणैः पतितैः सहस्रशः प्रनष्ट-संज्ञैः पुनः उच्छ्वसद्भिः मही बभूव अनुगतैः इव अग्निभिः दिवः च्युतैः भूः अति दीप्तिमत् नक्तम् ग्रहैः द्यौः अमला इव दीप्तैः

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
प्रहार प्रहार pos=n,comp=y
अभिहतैः अभिहन् pos=va,g=m,c=3,n=p,f=part
महा महत् pos=a,comp=y
बलैः बल pos=n,g=m,c=3,n=p
अवेक्ष्यमाणैः अवेक्ष् pos=va,g=m,c=3,n=p,f=part
पतितैः पत् pos=va,g=m,c=3,n=p,f=part
सहस्रशः सहस्रशस् pos=i
प्रनष्ट प्रणश् pos=va,comp=y,f=part
संज्ञैः संज्ञा pos=n,g=m,c=3,n=p
पुनः पुनर् pos=i
उच्छ्वसद्भिः उच्छ्वस् pos=va,g=m,c=3,n=p,f=part
मही मही pos=n,g=f,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
अनुगतैः अनुगम् pos=va,g=m,c=3,n=p,f=part
इव इव pos=i
अग्निभिः अग्नि pos=n,g=m,c=3,n=p
दिवः दिव् pos=n,g=,c=5,n=s
च्युतैः च्यु pos=va,g=m,c=3,n=p,f=part
भूः भू pos=n,g=f,c=1,n=s
अति अति pos=i
दीप्तिमत् दीप्तिमत् pos=a,g=m,c=3,n=p
नक्तम् नक्त pos=n,g=n,c=2,n=s
ग्रहैः ग्रह pos=n,g=m,c=3,n=p
द्यौः दिव् pos=n,g=,c=1,n=s
अमला अमल pos=a,g=f,c=1,n=s
इव इव pos=i
दीप्तैः दीप् pos=va,g=m,c=3,n=p,f=part