Original

तं सोमकाः प्रेक्ष्य हतं शयानं प्रीता नादं सह सैन्यैरकुर्वन् ।तूर्याणि चाजघ्नुरतीव हृष्टा वासांसि चैवादुधुवुर्भुजांश्च ।बलान्विताश्चाप्यपरे ह्यनृत्यन्नन्योन्यमाश्लिष्य नदन्त ऊचुः ॥ २८ ॥

Segmented

तम् सोमकाः प्रेक्ष्य हतम् शयानम् प्रीता नादम् सह सैन्यैः अकुर्वन् तूर्याणि च आजघ्नुः अतीव हृष्टा वासांसि च एव आदुधुवुः भुजांः च बल-अन्विताः च अपि अपरे ह्य् अनृत्यन्न् अन्योन्यम् आश्लिष्य नदन्त ऊचुः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
सोमकाः सोमक pos=n,g=m,c=1,n=p
प्रेक्ष्य प्रेक्ष् pos=vi
हतम् हन् pos=va,g=m,c=2,n=s,f=part
शयानम् शी pos=va,g=m,c=2,n=s,f=part
प्रीता प्री pos=va,g=m,c=1,n=p,f=part
नादम् नाद pos=n,g=m,c=2,n=s
सह सह pos=i
सैन्यैः सैन्य pos=n,g=m,c=3,n=p
अकुर्वन् कृ pos=v,p=3,n=p,l=lan
तूर्याणि तूर्य pos=n,g=n,c=2,n=p
pos=i
आजघ्नुः आहन् pos=v,p=3,n=p,l=lit
अतीव अतीव pos=i
हृष्टा हृष् pos=va,g=m,c=1,n=p,f=part
वासांसि वासस् pos=n,g=n,c=2,n=p
pos=i
एव एव pos=i
आदुधुवुः आधू pos=v,p=3,n=p,l=lit
भुजांः भुज pos=n,g=m,c=2,n=p
pos=i
बल बल pos=n,comp=y
अन्विताः अन्वित pos=a,g=m,c=1,n=p
pos=i
अपि अपि pos=i
अपरे अपर pos=n,g=m,c=1,n=p
ह्य् हि pos=i
अनृत्यन्न् नृत् pos=v,p=3,n=p,l=lan
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
आश्लिष्य आश्लिष् pos=vi
नदन्त नद् pos=va,g=m,c=1,n=p,f=part
ऊचुः वच् pos=v,p=3,n=p,l=lit