Original

इत्यूचिवांस्तं स मुमोच बाणं धनंजयः कर्णवधाय घोरम् ।कृत्यामथर्वाङ्गिरसीमिवोग्रां दीप्तामसह्यां युधि मृत्युनापि ॥ २१ ॥

Segmented

इत्य् ऊचिवांस् तम् स मुमोच बाणम् धनंजयः कर्ण-वधाय घोरम् कृत्याम् अथर्व-आङ्गिरसाम् इव उग्राम् दीप्ताम् असह्याम् युधि मृत्युना अपि

Analysis

Word Lemma Parse
इत्य् इति pos=i
ऊचिवांस् वच् pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
बाणम् बाण pos=n,g=m,c=2,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
कर्ण कर्ण pos=n,comp=y
वधाय वध pos=n,g=m,c=4,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
कृत्याम् कृत्या pos=n,g=f,c=2,n=s
अथर्व अथर्वन् pos=n,comp=y
आङ्गिरसाम् आङ्गिरस pos=a,g=f,c=2,n=s
इव इव pos=i
उग्राम् उग्र pos=a,g=f,c=2,n=s
दीप्ताम् दीप् pos=va,g=f,c=2,n=s,f=part
असह्याम् असह्य pos=a,g=f,c=2,n=s
युधि युध् pos=n,g=f,c=7,n=s
मृत्युना मृत्यु pos=n,g=m,c=3,n=s
अपि अपि pos=i