Original

अस्त्रैरस्त्राणि राधेयः प्रत्यहन्सव्यसाचिनः ।चक्रे चाभ्यधिकं पार्थात्स्ववीर्यं प्रतिदर्शयन् ॥ ५६ ॥

Segmented

अस्त्रैः अस्त्राणि राधेयः प्रत्यहन् सव्यसाचिनः चक्रे च अभ्यधिकम् पार्थात् स्व-वीर्यम् प्रतिदर्शयन्

Analysis

Word Lemma Parse
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
राधेयः राधेय pos=n,g=m,c=1,n=s
प्रत्यहन् प्रतिहन् pos=v,p=3,n=s,l=lan
सव्यसाचिनः सव्यसाचिन् pos=n,g=m,c=6,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
pos=i
अभ्यधिकम् अभ्यधिक pos=a,g=n,c=2,n=s
पार्थात् पार्थ pos=n,g=m,c=5,n=s
स्व स्व pos=a,comp=y
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
प्रतिदर्शयन् प्रतिदर्शय् pos=va,g=m,c=1,n=s,f=part