Original

ततस्तेजोमया बाणा रथात्पार्थस्य निःसृताः ।प्रादुरासन्महावीर्याः कर्णस्य रथमन्तिकात् ॥ ५० ॥

Segmented

ततस् तेजः-मयाः बाणा रथात् पार्थस्य निःसृताः प्रादुरासन् महा-वीर्याः कर्णस्य रथम् अन्तिकात्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तेजः तेजस् pos=n,comp=y
मयाः मय pos=a,g=m,c=1,n=p
बाणा बाण pos=n,g=m,c=1,n=p
रथात् रथ pos=n,g=m,c=5,n=s
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
निःसृताः निःसृ pos=va,g=m,c=1,n=p,f=part
प्रादुरासन् प्रादुरस् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
वीर्याः वीर्य pos=n,g=m,c=1,n=p
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
अन्तिकात् अन्तिक pos=n,g=n,c=5,n=s