Original

महाधनुर्मण्डलनिःसृतैः शितैः क्रियाप्रयत्नप्रहितैर्बलेन च ।ततक्ष कर्णं बहुभिः शरोत्तमैर्बिभेद मर्मस्वपि चार्जुनस्त्वरन् ॥ ३५ ॥

Segmented

महा-धनुः-मण्डली-निःसृतैः शितैः क्रिया-प्रयत्न-प्रहितैः बलेन च ततक्ष कर्णम् बहुभिः शर-उत्तमैः बिभेद मर्मस्व् अपि च अर्जुनः त्वरन्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
धनुः धनुस् pos=n,comp=y
मण्डली मण्डल pos=n,comp=y
निःसृतैः निःसृ pos=va,g=m,c=3,n=p,f=part
शितैः शा pos=va,g=m,c=3,n=p,f=part
क्रिया क्रिया pos=n,comp=y
प्रयत्न प्रयत्न pos=n,comp=y
प्रहितैः प्रहि pos=va,g=m,c=3,n=p,f=part
बलेन बल pos=n,g=n,c=3,n=s
pos=i
ततक्ष तक्ष् pos=v,p=3,n=s,l=lit
कर्णम् कर्ण pos=n,g=m,c=2,n=s
बहुभिः बहु pos=a,g=m,c=3,n=p
शर शर pos=n,comp=y
उत्तमैः उत्तम pos=a,g=m,c=3,n=p
बिभेद भिद् pos=v,p=3,n=s,l=lit
मर्मस्व् मर्मन् pos=n,g=n,c=7,n=p
अपि अपि pos=i
pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
त्वरन् त्वर् pos=va,g=m,c=1,n=s,f=part