Original

महाधनं शिल्पिवरैः प्रयत्नतः कृतं यदस्योत्तमवर्म भास्वरम् ।सुदीर्घकालेन तदस्य पाण्डवः क्षणेन बाणैर्बहुधा व्यशातयत् ॥ ३३ ॥

Segmented

महाधनम् शिल्पि-वरैः प्रयत्नतः कृतम् यद् अस्य उत्तम-वर्म भास्वरम् सु दीर्घ-कालेन तद् अस्य पाण्डवः क्षणेन बाणैः बहुधा व्यशातयत्

Analysis

Word Lemma Parse
महाधनम् महाधन pos=a,g=n,c=1,n=s
शिल्पि शिल्पिन् pos=n,comp=y
वरैः वर pos=a,g=m,c=3,n=p
प्रयत्नतः प्रयत्न pos=n,g=m,c=5,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
यद् यद् pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
उत्तम उत्तम pos=a,comp=y
वर्म वर्मन् pos=n,g=n,c=1,n=s
भास्वरम् भास्वर pos=a,g=n,c=1,n=s
सु सु pos=i
दीर्घ दीर्घ pos=a,comp=y
कालेन काल pos=n,g=m,c=3,n=s
तद् तद् pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
क्षणेन क्षण pos=n,g=m,c=3,n=s
बाणैः बाण pos=n,g=m,c=3,n=p
बहुधा बहुधा pos=i
व्यशातयत् विशातय् pos=v,p=3,n=s,l=lan