Original

तदर्जुनास्त्रं ग्रसते स्म वीरान्वियत्तथाकाशमनन्तघोषम् ।क्रुद्धेन पार्थेन तदाशु सृष्टं वधाय कर्णस्य महाविमर्दे ॥ २ ॥

Segmented

तद् अर्जुन-अस्त्रम् ग्रसते स्म वीरान् वियत् तथा आकाशम् अनन्त-घोषम् क्रुद्धेन पार्थेन तदा आशु सृष्टम् वधाय कर्णस्य महा-विमर्दे

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
अर्जुन अर्जुन pos=n,comp=y
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
ग्रसते ग्रस् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
वीरान् वीर pos=n,g=m,c=2,n=p
वियत् वियन्त् pos=n,g=n,c=2,n=s
तथा तथा pos=i
आकाशम् आकाश pos=n,g=n,c=2,n=s
अनन्त अनन्त pos=a,comp=y
घोषम् घोष pos=n,g=n,c=1,n=s
क्रुद्धेन क्रुध् pos=va,g=m,c=3,n=s,f=part
पार्थेन पार्थ pos=n,g=m,c=3,n=s
तदा तदा pos=i
आशु आशु pos=i
सृष्टम् सृज् pos=va,g=n,c=1,n=s,f=part
वधाय वध pos=n,g=m,c=4,n=s
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
विमर्दे विमर्द pos=n,g=m,c=7,n=s