Original

महार्हरूपं द्विषतां भयंकरं विभाति चात्यर्थसुखं सुगन्धि तत् ।निजघ्नुषे देवरिपून्सुरेश्वरः स्वयं ददौ यत्सुमनाः किरीटिने ॥ १४ ॥

Segmented

महार्ह-रूपम् द्विषताम् भयंकरम् विभाति च अत्यर्थ-सुखम् सुगन्धि तत् निजघ्नुषे देव-रिपून् सुरेश्वरः स्वयम् ददौ यत् सु मनाः किरीटिने

Analysis

Word Lemma Parse
महार्ह महार्ह pos=a,comp=y
रूपम् रूप pos=n,g=n,c=1,n=s
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
भयंकरम् भयंकर pos=a,g=n,c=1,n=s
विभाति विभा pos=v,p=3,n=s,l=lat
pos=i
अत्यर्थ अत्यर्थ pos=a,comp=y
सुखम् सुख pos=a,g=n,c=1,n=s
सुगन्धि सुगन्धि pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
निजघ्नुषे निहन् pos=va,g=m,c=4,n=s,f=part
देव देव pos=n,comp=y
रिपून् रिपु pos=n,g=m,c=2,n=p
सुरेश्वरः सुरेश्वर pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
ददौ दा pos=v,p=3,n=s,l=lit
यत् यद् pos=n,g=n,c=2,n=s
सु सु pos=i
मनाः मनस् pos=n,g=m,c=1,n=s
किरीटिने किरीटिन् pos=n,g=m,c=4,n=s