Original

तान्पञ्चभल्लैस्त्वरितैः सुमुक्तैस्त्रिधा त्रिधैकैकमथोच्चकर्त ।धनंजयस्ते न्यपतन्पृथिव्यां महाहयस्तक्षकपुत्रपक्षाः ॥ ३९ ॥

Segmented

तान् पञ्च-भल्लैः त्वरितैः सु मुक्तैः त्रिधा त्रिधा एकैकम् अथ उच्चकर्त धनंजयस् ते न्यपतन् पृथिव्याम् महा-अहयः तक्षक-पुत्र-पक्षाः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
पञ्च पञ्चन् pos=n,comp=y
भल्लैः भल्ल pos=n,g=m,c=3,n=p
त्वरितैः त्वर् pos=va,g=m,c=3,n=p,f=part
सु सु pos=i
मुक्तैः मुच् pos=va,g=m,c=3,n=p,f=part
त्रिधा त्रिधा pos=i
त्रिधा त्रिधा pos=i
एकैकम् एकैक pos=n,g=m,c=2,n=s
अथ अथ pos=i
उच्चकर्त उत्कृत् pos=v,p=3,n=s,l=lit
धनंजयस् धनंजय pos=n,g=m,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
न्यपतन् निपत् pos=v,p=3,n=p,l=lan
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
महा महत् pos=a,comp=y
अहयः अहि pos=n,g=m,c=1,n=p
तक्षक तक्षक pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
पक्षाः पक्ष pos=n,g=m,c=1,n=p