Original

ततोऽस्त्रमस्त्रेण परस्परस्य तौ विधूय वाताविव पूर्वपश्चिमौ ।घनान्धकारे वितते तमोनुदौ यथोदितौ तद्वदतीव रेजतुः ॥ ७ ॥

Segmented

ततो ऽस्त्रम् अस्त्रेण परस्परस्य तौ विधूय वाताव् इव पूर्व-पश्चिमौ घन-अन्धकारे वितते तमोनुदौ यथा उदितौ तद्वद् अतीव रेजतुः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
परस्परस्य परस्पर pos=n,g=m,c=6,n=s
तौ तद् pos=n,g=m,c=1,n=d
विधूय विधू pos=vi
वाताव् वात pos=n,g=m,c=1,n=d
इव इव pos=i
पूर्व पूर्व pos=n,comp=y
पश्चिमौ पश्चिम pos=a,g=m,c=1,n=d
घन घन pos=a,comp=y
अन्धकारे अन्धकार pos=n,g=m,c=7,n=s
वितते वितन् pos=va,g=m,c=7,n=s,f=part
तमोनुदौ तमोनुद pos=n,g=m,c=1,n=d
यथा यथा pos=i
उदितौ उदि pos=va,g=m,c=1,n=d,f=part
तद्वद् तद्वत् pos=i
अतीव अतीव pos=i
रेजतुः राज् pos=v,p=3,n=d,l=lit