Original

तौ दृष्ट्वा विस्मयं जग्मुः सर्वभूतानि मारिष ।त्रैलोक्यविजये यत्ताविन्द्रवैरोचनाविव ॥ ५ ॥

Segmented

तौ दृष्ट्वा विस्मयम् जग्मुः सर्व-भूतानि मारिष त्रैलोक्य-विजये यत्ताव् इन्द्र-वैरोचनौ इव

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
दृष्ट्वा दृश् pos=vi
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=1,n=p
मारिष मारिष pos=n,g=m,c=8,n=s
त्रैलोक्य त्रैलोक्य pos=n,comp=y
विजये विजय pos=n,g=m,c=7,n=s
यत्ताव् यत् pos=va,g=m,c=2,n=d,f=part
इन्द्र इन्द्र pos=n,comp=y
वैरोचनौ वैरोचन pos=n,g=m,c=2,n=d
इव इव pos=i