Original

ततः शतानीकमविध्यदाशुगैस्त्रिभिः शितैः कर्णसुतोऽर्जुनं त्रिभिः ।त्रिभिश्च भीमं नकुलं च सप्तभिर्जनार्दनं द्वादशभिश्च सायकैः ॥ ५३ ॥

Segmented

ततः शतानीकम् अविध्यद् आशुगैस् त्रिभिः शितैः कर्ण-सुतः ऽर्जुनम् त्रिभिः त्रिभिः च भीमम् नकुलम् च सप्तभिः जनार्दनम् द्वादशभिः च सायकैः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शतानीकम् शतानीक pos=n,g=m,c=2,n=s
अविध्यद् व्यध् pos=v,p=3,n=s,l=lan
आशुगैस् आशुग pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
शितैः शा pos=va,g=m,c=3,n=p,f=part
कर्ण कर्ण pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
pos=i
भीमम् भीम pos=n,g=m,c=2,n=s
नकुलम् नकुल pos=n,g=m,c=2,n=s
pos=i
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
जनार्दनम् जनार्दन pos=n,g=m,c=2,n=s
द्वादशभिः द्वादशन् pos=n,g=m,c=3,n=p
pos=i
सायकैः सायक pos=n,g=m,c=3,n=p