Original

ततः शतानीकहतान्महागजांस्तथा रथान्पत्तिगणांश्च तावकान् ।जघान भोजश्च हयानथापतन्विशस्त्रकृत्ताः कृतवर्मणा द्विपाः ॥ ४२ ॥

Segmented

ततः शतानीक-हताम् महा-गजान् तथा रथान् पत्ति-गणान् च तावकान् जघान भोजः च हयान् अथ अपतन् विशस्त्र-कृत्ताः कृतवर्मणा द्विपाः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शतानीक शतानीक pos=n,comp=y
हताम् हन् pos=va,g=m,c=2,n=p,f=part
महा महत् pos=a,comp=y
गजान् गज pos=n,g=m,c=2,n=p
तथा तथा pos=i
रथान् रथ pos=n,g=m,c=2,n=p
पत्ति पत्ति pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
pos=i
तावकान् तावक pos=a,g=m,c=2,n=p
जघान हन् pos=v,p=3,n=s,l=lit
भोजः भोज pos=n,g=m,c=1,n=s
pos=i
हयान् हय pos=n,g=m,c=2,n=p
अथ अथ pos=i
अपतन् पत् pos=v,p=3,n=p,l=lan
विशस्त्र विशस्त्र pos=a,comp=y
कृत्ताः कृत् pos=va,g=m,c=1,n=p,f=part
कृतवर्मणा कृतवर्मन् pos=n,g=m,c=3,n=s
द्विपाः द्विप pos=n,g=m,c=1,n=p