Original

ततोऽभ्यधावत्समरे जिघांसुः कर्णात्मजं पाण्डुसुतो नृवीरः ।तस्येषुभिर्व्यधमत्कर्णपुत्रो महारणे चर्म सहस्रतारम् ॥ २८ ॥

Segmented

ततो ऽभ्यधावत् समरे जिघांसुः कर्ण-आत्मजम् पाण्डु-सुतः नृ-वीरः तस्य इषुभिः व्यधमत् कर्ण-पुत्रः महा-रणे चर्म सहस्र-तारम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽभ्यधावत् अभिधाव् pos=v,p=3,n=s,l=lan
समरे समर pos=n,g=n,c=7,n=s
जिघांसुः जिघांसु pos=a,g=m,c=1,n=s
कर्ण कर्ण pos=n,comp=y
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
पाण्डु पाण्डु pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
नृ नृ pos=n,comp=y
वीरः वीर pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
इषुभिः इषु pos=n,g=m,c=3,n=p
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
कर्ण कर्ण pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s
चर्म चर्मन् pos=n,g=n,c=2,n=s
सहस्र सहस्र pos=n,comp=y
तारम् तारा pos=n,g=n,c=2,n=s