Original

तं कर्णपुत्रो विधमन्तमेकं नराश्वमातङ्गरथप्रवेकान् ।क्रीडन्तमष्टादशभिः पृषत्कैर्विव्याध वीरं स चुकोप विद्धः ॥ २७ ॥

Segmented

तम् कर्ण-पुत्रः विधमन्तम् एकम् नर-अश्व-मातङ्ग-रथ-प्रवेकान् क्रीडन्तम् अष्टादशभिः पृषत्कैः विव्याध वीरम् स चुकोप विद्धः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
कर्ण कर्ण pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
विधमन्तम् विधम् pos=va,g=m,c=2,n=s,f=part
एकम् एक pos=n,g=m,c=2,n=s
नर नर pos=n,comp=y
अश्व अश्व pos=n,comp=y
मातङ्ग मातंग pos=n,comp=y
रथ रथ pos=n,comp=y
प्रवेकान् प्रवेक pos=a,g=m,c=2,n=p
क्रीडन्तम् क्रीड् pos=va,g=m,c=2,n=s,f=part
अष्टादशभिः अष्टादशन् pos=a,g=m,c=3,n=p
पृषत्कैः पृषत्क pos=n,g=m,c=3,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
वीरम् वीर pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
चुकोप कुप् pos=v,p=3,n=s,l=lit
विद्धः व्यध् pos=va,g=m,c=1,n=s,f=part