Original

ततः क्रुद्धो नकुलस्तं महात्मा शरैर्महोल्काप्रतिमैरविध्यत् ।दिव्यैरस्त्रैरभ्यविध्यच्च सोऽपि कर्णस्य पुत्रो नकुलं कृतास्त्रः ॥ २१ ॥

Segmented

ततः क्रुद्धो नकुलस् तम् महात्मा शरैः महा-उल्का-प्रतिमा अविध्यत् दिव्यैः अस्त्रैः अभ्यविध्यच् च सो ऽपि कर्णस्य पुत्रो नकुलम् कृतास्त्रः

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
नकुलस् नकुल pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
उल्का उल्का pos=n,comp=y
प्रतिमा प्रतिमा pos=n,g=m,c=3,n=p
अविध्यत् व्यध् pos=v,p=3,n=s,l=lan
दिव्यैः दिव्य pos=a,g=n,c=3,n=p
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
अभ्यविध्यच् अभिव्यध् pos=v,p=3,n=s,l=lan
pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
नकुलम् नकुल pos=n,g=m,c=2,n=s
कृतास्त्रः कृतास्त्र pos=a,g=m,c=1,n=s