Original

ततः शिनीनामृषभः शितैः शरैर्निकृत्य कर्णप्रहितानिषून्बहून् ।विदार्य कर्णं निशितैरयस्मयैस्तवात्मजं ज्येष्ठमविध्यदष्टभिः ॥ २३ ॥

Segmented

ततः शिनीनाम् ऋषभः शितैः शरैः निकृत्य कर्ण-प्रहितान् इषून् बहून् विदार्य कर्णम् निशितैः अयस्मयैस् ते आत्मजम् ज्येष्ठम् अविध्यद् अष्टभिः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शिनीनाम् शिनि pos=n,g=m,c=6,n=p
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
निकृत्य निकृत् pos=vi
कर्ण कर्ण pos=n,comp=y
प्रहितान् प्रहि pos=va,g=m,c=2,n=p,f=part
इषून् इषु pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p
विदार्य विदारय् pos=vi
कर्णम् कर्ण pos=n,g=m,c=2,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
अयस्मयैस् अयस्मय pos=a,g=m,c=3,n=p
ते त्वद् pos=n,g=,c=6,n=s
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
ज्येष्ठम् ज्येष्ठ pos=a,g=m,c=2,n=s
अविध्यद् व्यध् pos=v,p=3,n=s,l=lan
अष्टभिः अष्टन् pos=n,g=m,c=3,n=p