Original

संजय उवाच ।ततः कर्णः कुरुषु प्रद्रुतेषु वरूथिना श्वेतहयेन राजन् ।पाञ्चालपुत्रान्व्यधमत्सूतपुत्रो महेषुभिर्वात इवाभ्रसंघान् ॥ १ ॥

Segmented

संजय उवाच ततः कर्णः कुरुषु प्रद्रुतेषु वरूथिना श्वेत-हयेन राजन् पाञ्चाल-पुत्रान् व्यधमत् सूतपुत्रो महा-इषुभिः वात इव अभ्र-सङ्घान्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
कुरुषु कुरु pos=n,g=m,c=7,n=p
प्रद्रुतेषु प्रद्रु pos=va,g=m,c=7,n=p,f=part
वरूथिना वरूथिन् pos=a,g=m,c=3,n=s
श्वेत श्वेत pos=a,comp=y
हयेन हय pos=n,g=m,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पाञ्चाल पाञ्चाल pos=n,comp=y
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
सूतपुत्रो सूतपुत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इषुभिः इषु pos=n,g=m,c=3,n=p
वात वात pos=n,g=m,c=1,n=s
इव इव pos=i
अभ्र अभ्र pos=n,comp=y
सङ्घान् संघ pos=n,g=m,c=2,n=p