Original

अश्वारोहा महाराज धावमानास्ततस्ततः ।तत्र तत्रैव दृश्यन्ते पतिताः पार्थसायकैः ॥ १८ ॥

Segmented

अश्व-आरोहाः महा-राज धावमानास् ततस् ततः तत्र तत्र एव दृश्यन्ते पतिताः पार्थ-सायकैः

Analysis

Word Lemma Parse
अश्व अश्व pos=n,comp=y
आरोहाः आरोह pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
धावमानास् धाव् pos=va,g=m,c=1,n=p,f=part
ततस् ततस् pos=i
ततः ततस् pos=i
तत्र तत्र pos=i
तत्र तत्र pos=i
एव एव pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
पतिताः पत् pos=va,g=m,c=1,n=p,f=part
पार्थ पार्थ pos=n,comp=y
सायकैः सायक pos=n,g=m,c=3,n=p