Original

अथाग्र्यबाणैर्दशभिर्धनंजयं पराभिनद्द्रोणसुतोऽच्युतं त्रिभिः ।चतुर्भिरश्वांश्चतुरः कपिं तथा शरैः स नाराचवरैरवाकिरत् ॥ ५८ ॥

Segmented

अथ अग्र्य-बाणैः दशभिः धनंजयम् पराभिनद् द्रोण-सुतः ऽच्युतम् त्रिभिः चतुर्भिः अश्वांः चतुरः कपिम् तथा शरैः स नाराच-वरैः अवाकिरत्

Analysis

Word Lemma Parse
अथ अथ pos=i
अग्र्य अग्र्य pos=a,comp=y
बाणैः बाण pos=n,g=m,c=3,n=p
दशभिः दशन् pos=n,g=m,c=3,n=p
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
पराभिनद् पराभिद् pos=v,p=3,n=s,l=lan
द्रोण द्रोण pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
ऽच्युतम् अच्युत pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
अश्वांः अश्व pos=n,g=m,c=2,n=p
चतुरः चतुर् pos=n,g=m,c=2,n=p
कपिम् कपि pos=n,g=m,c=2,n=s
तथा तथा pos=i
शरैः शर pos=n,g=m,c=3,n=p
तद् pos=n,g=m,c=1,n=s
नाराच नाराच pos=n,comp=y
वरैः वर pos=a,g=m,c=3,n=p
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan