Original

तमभ्यधावद्विसृजञ्शरान्कृपस्तथैव भोजस्तव चात्मजः स्वयम् ।जिघांसुभिस्तान्कुशलैः शरोत्तमान्महाहवे संजवितान्प्रयत्नतः ।शरैः प्रचिच्छेद च पाण्डवस्त्वरन्पराभिनद्वक्षसि च त्रिभिस्त्रिभिः ॥ ५६ ॥

Segmented

तम् अभ्यधावद् विसृजञ् शरान् कृपस् तथा एव भोजस् तव च आत्मजः स्वयम् जिघांसुभिस् तान् कुशलैः शर-उत्तमान् महा-आहवे संजवितान् प्रयत्नतः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अभ्यधावद् अभिधाव् pos=v,p=3,n=s,l=lan
विसृजञ् विसृज् pos=va,g=m,c=1,n=s,f=part
शरान् शर pos=n,g=m,c=2,n=p
कृपस् कृप pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
भोजस् भोज pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
pos=i
आत्मजः आत्मज pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
जिघांसुभिस् जिघांसु pos=a,g=m,c=3,n=p
तान् तद् pos=n,g=m,c=2,n=p
कुशलैः कुशल pos=a,g=m,c=3,n=p
शर शर pos=n,comp=y
उत्तमान् उत्तम pos=a,g=m,c=2,n=p
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
संजवितान् संजवित pos=a,g=m,c=2,n=p
प्रयत्नतः प्रयत्न pos=n,g=m,c=5,n=s