Original

वर्षायुतैर्यस्य गुणा न शक्या वक्तुं समेतैरपि सर्वलोकैः ।महात्मनः शङ्खचक्रासिपाणेर्विष्णोर्जिष्णोर्वसुदेवात्मजस्य ।भयं मे वै जायते साध्वसं च दृष्ट्वा कृष्णावेकरथे समेतौ ॥ ४८ ॥

Segmented

वर्ष-अयुतैः यस्य गुणा न शक्या वक्तुम् समेतैः अपि सर्व-लोकैः महात्मनः शङ्ख-चक्र-असि-पाणेः विष्णोः जिष्णोः वसुदेव-आत्मजस्य भयम् मे वै जायते साध्वसम् च दृष्ट्वा कृष्णाव् एक-रथे समेतौ

Analysis

Word Lemma Parse
वर्ष वर्ष pos=n,comp=y
अयुतैः अयुत pos=n,g=n,c=3,n=p
यस्य यद् pos=n,g=m,c=6,n=s
गुणा गुण pos=n,g=m,c=1,n=p
pos=i
शक्या शक् pos=va,g=m,c=1,n=p,f=krtya
वक्तुम् वच् pos=vi
समेतैः समे pos=va,g=m,c=3,n=p,f=part
अपि अपि pos=i
सर्व सर्व pos=n,comp=y
लोकैः लोक pos=n,g=m,c=3,n=p
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
शङ्ख शङ्ख pos=n,comp=y
चक्र चक्र pos=n,comp=y
असि असि pos=n,comp=y
पाणेः पाणि pos=n,g=m,c=6,n=s
विष्णोः विष्णु pos=n,g=m,c=6,n=s
जिष्णोः जिष्णु pos=n,g=m,c=6,n=s
वसुदेव वसुदेव pos=n,comp=y
आत्मजस्य आत्मज pos=n,g=m,c=6,n=s
भयम् भय pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
वै वै pos=i
जायते जन् pos=v,p=3,n=s,l=lat
साध्वसम् साध्वस pos=n,g=n,c=1,n=s
pos=i
दृष्ट्वा दृश् pos=vi
कृष्णाव् कृष्ण pos=n,g=m,c=2,n=d
एक एक pos=n,comp=y
रथे रथ pos=n,g=m,c=7,n=s
समेतौ समे pos=va,g=m,c=2,n=d,f=part