Original

स्वप्स्ये वा निहतस्ताभ्यामसत्यो हि रणे जयः ।कृतार्थो वा भविष्यामि हत्वा तावथ वा हतः ॥ ३६ ॥

Segmented

स्वप्स्ये वा निहतस् ताभ्याम् असत्यो हि रणे जयः कृतार्थो वा भविष्यामि हत्वा ताव् अथवा हतः

Analysis

Word Lemma Parse
स्वप्स्ये स्वप् pos=v,p=1,n=s,l=lrt
वा वा pos=i
निहतस् निहन् pos=va,g=m,c=1,n=s,f=part
ताभ्याम् तद् pos=n,g=m,c=3,n=d
असत्यो असत्य pos=a,g=m,c=1,n=s
हि हि pos=i
रणे रण pos=n,g=m,c=7,n=s
जयः जय pos=n,g=m,c=1,n=s
कृतार्थो कृतार्थ pos=a,g=m,c=1,n=s
वा वा pos=i
भविष्यामि भू pos=v,p=1,n=s,l=lrt
हत्वा हन् pos=vi
ताव् तद् pos=n,g=m,c=2,n=d
अथवा अथवा pos=i
हतः हन् pos=va,g=m,c=1,n=s,f=part